________________ (118) यद्भेदैस्तद्वदाख्या / 2 / 2 / 46 / यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारैर्विशेषैस्तद्वतः पदार्थस्य निर्देशः स्यात् तद्वाचिनो गौणाद् नाम्नस्तृतीया स्यात्। अक्ष्णा काणः। पादेन खजः / शिरसा खल्वाटः / प्रकृत्या चारुः / गोत्रेण गार्यः / प्रायेणालसः / प्रायेण नैयायिकः / कर्माभिप्रेयः सम्प्रदानम् / 2 / 2 / 25 / कर्मकारकेन क्रियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः कारकं सम्प्रदानसम्झं स्यात् / तच्च त्रिविधम् त्यज्यमानरूपेण कर्मणा प्राप्तं सत् प्रेरकम्- देहीति यत् प्रेरयति याचकाय गां ददाति / अनुमन्तृदायकेन अहमिदं ददामीत्युक्ते 'ओम्' इत्यनुमन्यते तत् श्राद्धो गुरवे भिक्षां ददाति / यच नानुमन्यते न च निराकरोति तदनिराकर्तृ- जिनायाय॑ ददाति / गुरवे कार्य निवेदयति / पत्ये शेते / युद्धाय संनह्यते / यत्र श्रद्धादिना नानुसम्बन्धस्तत्र षष्ठयेव / राज्ञो दण्डं, रजकस्य वस्त्रं ददाति / चतुर्थी / 2 / 2 / 53 / सम्प्रदानसज्ञकाद् गौणःद् नाम्नश्चतुर्थी स्यात् / धर्माय यतते / धनाय गच्छति / जिनमुवनाय सहस्रं ददाति / अपायेऽवधिरपादानम् / 2 / 2 / 29 /