________________ (117 ) ___ स्वीकारविषयीभूतोऽशो भागस्तत्पतिर्भागी, तस्मिन् लक्षणादिष्वर्थेषु च वर्तमानाद् गौणाद् नाम्नः प्रतिपर्यनुभिर्युक्ताद् द्वितीया स्यात् / यदत्र मां प्रति परि अनु स्यात् योऽत्र मम भागस्तद् दीयतामित्यर्थः / वृक्षं प्रति परि अनु विद्योतते विद्युत् / वृक्षं वृक्ष प्रति परि अनु वा सेचनम् / साधु जिनरक्षो मातरमनु प्रति परिवा। कालाध्वनोाप्तौ / 2 / 2 / 42 / .. स्वकीयसम्बन्धिना द्रव्य-गुण-क्रियारूपेण सह सम्बन्धो व्याप्तिरत्यन्तसंयोग इत्यर्थः / तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणाद् नाम्नो द्वितीया स्यात्। मासं गुडधानाः / मासं कल्याणी। मसमधीते / कोशं पर्वतः / कोशं कुटिला नदी / क्रोशमधीते / हेतु-कर्तृ-करणेत्यम्भूतलक्षणे / 2 / 2 / 44 / - फलसाधनयोग्यः पदार्थो हेतुः, द्रव्यादिसाधारणत्वे सति 'निर्व्यापारसव्यापारसाधारणत्वं हेतुत्वम्, क्रियासिद्धौ प्रकृष्टोपकारकं नियतव्यापारोपबद्धं करणं क्रियामात्रविषयं व्यापारनियतं चेत्यर्थः, कञ्चित् प्रकारमापन्नं इत्थम्भूतः स लक्ष्यते येनेति इस्थम्भूतलक्षणम् , हेत्वादिषु वर्तमानाद् गौणाद् नाम्नस्तृतीया स्यात् / धनेन कुलम् , व्रतेन वा / दण्डेन घटः / पुण्येन दृष्टो जिनः / वस्तुपालेन कृतं जिनमन्दिरम् / कुमारपालेन कृता अहिंसामयी मेदिनी। दात्रेण लुनाति धान्यम् / रजोहरणेन जैनमुनिः रजोहरणज्ञाप्यजैनमुनित्वविशिष्ट इत्यर्थः /