________________ (116) द्वित्वेऽधोऽध्युपरिभिः / 2 / 2 / 34 / एषां द्वित्वे सति एभिर्युक्ताद् गौणाद् नाम्नो द्वितीया स्यात्।। अधोऽधो ग्रामं वनानि सन्ति / अध्यधि ग्रामं क्षेत्राणि / उपर्युपरि श्राद्धं याचकाः पतन्ति / गौणात् समया-निकषा-हा-धिगन्तराऽन्तरेणाति-येन तेनैर्द्वितीया'। 2 / 2 / 33 / - एभियुक्ताद् गौणाद् नाम्नो द्वितीया स्यात् / समया ग्राम क्षेत्राणि वर्तन्ते / निकषा ग्रामं जिनेन्द्रसमवसरणम् / हा जिनाभक्तं तस्य शोचत इत्यर्थः / धिग् मिथ्यादृष्टिम् / अन्तरा निषधं नीलं च मेरुः / जिनदर्शनमन्तरेण न सम्यगवाप्तिः / अति कुरून् महद् बलं कुर्वतिक्रमेण वृद्धमित्यर्थः / येन पश्चिमां गतः / तेन पश्चिमां नीतः। लक्षण-वीप्स्येत्यम्भूतेष्वभिना।२।२।३६ / लक्षणं चिह्नम्, समुदायस्यावयवशः क्रियाभिः कृत्स्नेन प्राप्तुमिच्छा वीप्सा तत्कर्म वीप्स्यम्, केनचिद् विवक्षितविशेषेण भाव इत्थम्भूतम्, एषु वर्तमानाद् गौणाद् नाम्नोऽभिना युक्ताद् द्वितीया स्यात् / वृक्षमभि विद्योतते विद्युत् / वृक्षं वृक्षमभि सिञ्चति / साधु जिनदत्तो मातरमभि / लक्षणेत्यादि किम् यदा ममाभिष्यात् तद् दीयताम् / भागिनि च प्रतिपर्यनुभिः / 2 / 2 / 37 /