________________ ( 115) कर्तरि तृतीयैव / हकोरणिकर्तुौँ वा कर्मत्वम् / वहेरपि क्वचिद् वहति भारं तुरङ्गमः, वाहयति भारं तुरङ्गमेण ब्राह्मणः / ___ कर्मणि / 2 / 2 / 40 / गौणाद् नाम्नः कर्मणि कारके द्वितीया स्यात् / आख्यातपदेनासामानाधिकरण्यं गौणत्वम् / घटं करोति / जिनेन्द्रं पश्यति / गुरुं प्रणमति। त्यादि-कृत्-तद्धित-समासादिभिरुक्ते तु कर्मणि प्रथमैव 'उक्तार्थानां नानुप्रयोगः' इति न्यायात् / घटः क्रियते / जिनेन्द्रो दृष्टः / स्नानीयं चूर्णम् / दानीयो मुनिः / गोमान् चैत्रः / शतेन क्रीतः शत्यः। नता देवेन्द्रा यं स नतदेवेन्द्र इत्यादि / नी-हरत्यादीनामुभयकर्मणां धातूनां कर्मणोः प्रधानेतरता, यस्मै क्रियाऽऽरभ्यते तद् दुग्धादि प्रधानं कर्म, यत्तु तत्सिद्धयै क्रियया व्याप्यते गवादि तद् गौणम्, गोपालो गां पयो दोग्धि / यदा पयःप्रभृत्यर्था कादेः प्रवृत्तिरविवक्षिता तदा गवादेरेव मुख्यता / तत्र दुह्यादीनां गौणे कर्मणि कर्मजप्रत्ययो भवति / गोपालकेन गौः पयो दुह्यते / गुरुणा शिष्योऽर्थमुच्यते / 'न्यादीनां धातूनां तु मुख्ये कर्मणि नीयते गौर्द्विनामम् / उह्यते भारो ग्रामं चैत्रेणेत्यादयः / . सर्वोभयाभिपरिणा तसा / 2 / 2 / 35 / तस्प्रत्ययान्तैस्सर्वादिभिर्युक्ताद् गौणाद् नाम्नो द्वितीया स्यात् / सर्वतो ग्रामं नदी वहति / अभितो ग्रामं नदी वहति / उभयतो ग्रामं पर्वताः / परितो जिनेन्द्रमिन्द्राः।