________________ (111) अथ कारकप्रकरणम् / क्रियाहेतुः कारकम् / 2 / 2 / 1 / क्रियाया हेतुः कारणं कर्तृ-कर्म-करणादि तत् कारकसझं स्यात् / तच्च शक्तिविशेषरूपम्, शक्ति-शक्तिमतोरभेदाद मैत्रादीनां कारकत्वम् / करोतीति कारकमित्यन्वर्थसज्ञासमाश्रयणेनानाविष्टव्यापाराणां हेत्वादीनां निमित्तमात्रत्वात् कारकसज्ञा न भवति / स्वतन्त्रः कर्ता / 2 / 2 / 2 / ___क्रियायां हेतुभूतः क्रियासिद्धावपराधीनतया प्रधानीमत प्रकृ तधात्वर्थव्यापाराश्रयत्वेन विवक्षितः कारकविशेषः कर्तृपक्षकः स्यात् / जिनेन्द्रेणोपदिष्टं प्रवचनम्। श्राद्धेन क्रियते जिनमन्दिरम् / .. नाम्नः प्रथमैक-द्वि-बहौ / 2 / 2 / 31 / ___एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानाद नाम्नः परात् क्रमेण सि-औ-जसरूपा प्रथमा विभक्तिः स्यात् / कर्मादिकारकेषु अनुक्तेषु द्वितीयादीनां विधास्यमानत्वेन प्रकृते च विशेषानभिधानेनाविशिष्टार्थमात्रे प्रथमा विज्ञया / तत्र अर्थो द्विविधः अभिधेयरूपो घोत्यरूपश्च / तत्राद्यः स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणः पञ्चकः समग्रोऽसमग्रो वा नामार्थः / शब्दस्यार्थे प्रवृत्तौ निमित्तमतः स्वरूप-जाति-गुण-क्रिया-सम्बन्धादिरूपः स्वार्थः / यत्तदादि