________________ (109) शब्दादपि कीर्नान्तादेशश्च वक्तव्यः / पत्नी / पाणिगृहीति इत्यादिशब्दा निपातनात् साधवो ज्ञेयाः। अशिशुशब्दाद् बहुव्रीही . अशिधी। नारी-सखी-पशू-श्वश्रूणामपि निपातनात् सिद्धिर्वेदितन्या। अञ्चः / 2 / 4 / 3 / अञ्चन्तात् स्त्रियां डीः स्यात् / सविता प्राग् गच्छति यस्यां सा प्राची दिग् / पश्चाद् गच्छति सा प्रतीची / एवम् उदीची / समीची / प्रान्ची इत्यादयः। स्वरादुतो गुणादखरोः / 2 / 4 / 35 / स्वरात् परोऽर्थादेकवर्णमात्रव्यवहितो य उकारस्तदन्तात् खरुवर्जिताद् गुणवचनाद् नाम्नः स्त्रियां डीर्वा स्यात् / पट्वी पटुः / मृद्वी मृदुः / तन्वी तनुः / साध्वी साधुः / स्वरादिति किम् पाण्डुर्भूमिः। उदिति किम् शुचिः। गुणादिति किम आखुः। अखरोरिति किम् खरुः / उतोऽपाणिनश्चायु-रज्ज्वादिभ्य ऊङ् / 2 / 4 / 73 / उकारान्तादप्राणिवाचिनो मनुष्यजातिवाचिनश्च नाम्नः स्त्रि-. यामूङ् प्रत्ययः स्याद्, युशब्दान्तं रज्ज्वादिशब्दं च वर्जयित्वा / कुरुः / इक्ष्वाकुः / अलावूः / कर्कन्धूः / उदिति किम विट् / गुरज्ज्वादिवर्जनाद् अध्वर्युः रज्जुरित्यादौ उङ् न / युवन्शब्दात्