________________ (108) इतोऽक्त्यात् / 2 / 4 / 22 / / ___ क्यर्थप्रत्ययान्तवनितादिकारान्ताद् नाम्नः स्त्रियां बीर्वा स्यात् / रात्री रात्रिः / धूली धूलिः / शकटी शकटिः / भूमी मूमिरित्यादिः / अक्त्यादिति किम् कृतिः, अजननिः। मनोरौ च वा / 2 / 4 / 61 / मनुशब्दाद् धवयोगात् स्त्रियां वर्तमानाद् डीर्वा स्यात्, तत्संनियोगे च औकार एकारश्चान्तादेशः स्यात् / मनोः स्त्री मनावी मनायी मनुः / पूतक्रतुषाकप्यग्निकुसितकुसिदादौ च / 2 / 4 / 60 / ___ धवयोगात् स्त्रियां वर्तमानेभ्य एभ्यो कीर्वा स्यात् , तत्सन्नियोगे चैकारोऽन्तादेशः स्यात् / पूतक्रतोः स्त्री पूतक्रतायी। वृषाकपायी / अग्नायी / कुसितायी / कुसिदायी। सपत्न्यादौ / 2 / 4 / 50 / / पस्यन्ताद् स्त्रियां नित्यं डीनकारश्चान्तादेशः / समानः पतिर्यस्याः सपत्नी / एकपत्नी / वीरपत्नी इत्यादिः / पतिवत्न्यन्तर्वल्यौ भार्या-गर्मिण्योः।२।४।५३। ___ भार्या जीवद्भर्तृका, तस्यां वाच्यायां पतिशब्दाद् डीः, प्रकृतेश्च पतिवत्नादेशः पतिवत्नी / गर्भिण्यांवाच्यायामन्तर्वच्छब्दाद् डीः, अन्तर्वत्नादेशश्च अन्तर्वत्नी / वीवाहितायां स्त्रियां केवलपति