________________ (107) कारान्तात् स्त्रियां कीर्वा स्यात् / सुमुखी अतिकेशी पक्षे सुमुखा अतिकेंशा / असहननित्यादि किम् सहकेशा, अकेशा, विद्यमानकेशा, कल्याणीक्रोडा इत्यादौ न भवति / अत्र स्वाङ्गं पारिभाषिकं ग्राह्यं यदुक्तम् अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते / च्युतं च प्राणिनस्तत् तनिमं च प्रतिमादिषु // 1 // तेन सुशोफा इति विकारत्वात् , सुस्वेदा इति द्रषत्वात्, सुज्ञाना इत्यमूर्तत्वाद् डीभाजो न भवन्ति / सुकेशी रथ्या, सुमुखी प्रतिमा इत्यादौ स्वस्याङ्गत्वाभावेऽपि पारिभाषिकस्वाङ्गत्वाद् डीः। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् / 2 / 4 / 39 / ___असहादिपूर्वपदेभ्य एभ्यो ङीर्वा स्यात् / सुनासिकी सुनासिका। कृशोदरी कृशोदरा। लम्बोष्ठी लम्बोष्ठा / लक्ष्णजङ्घी लक्षणजङ्घा / श्वेतदन्ती श्वेतदन्ता / सुन्दरकर्णी सुन्दरकर्णा / वक्रशृङ्गी वक्रशृगा / बलवन्दात्री बलवद्गात्रा। शङ्खकण्ठी शङ्खकण्ठा / पूर्वेणैव सिद्धे बहुस्वरस्य संयोगोपान्त्यस्य च स्वाङ्गस्य यदि डीस्तदा एषामेव तेनान्येषां न भवतीति नियमार्थ सूत्रम् / नखमुखादनाम्नि / 2 / 4 / 4 / आभ्यां स्वाङ्गाभ्यामसञ्ज्ञायामेव ङीर्वा स्यात् / सूर्पनखी सूर्पनखा / चन्द्रमुखी चन्द्रमुखा। अयमपि नियमार्थस्तेनैतदन्तयोरसज्ञायामेवेति / सूर्पणखा सज्ञायाम् /