________________ [10] तस्य चातिविस्तृततया समधिक-प्रज्ञा-समयव्ययसाध्यत्वेन, छळ्या वृत्तेरपि बृहद्वत्तिवद् अष्टाध्यायीक्रमसहिततया चन्द्रप्रभाहैमलघुप्रक्रियाभ्यामपि च सरलरीतिप्रकारेण संस्कृत-व्युत्पादन समभिलाषुकेण निर्मितं मयेदमरूपं व्याकरणम् / . अत्र च पूर्वार्धे पञ्च सन्धयः, षड्लिङ्गानि, युष्मदस्मत्प्रक्रिया, अव्ययप्रकरणम्, स्त्रीप्रत्ययः, कारकाणि, समास-तद्धितप्रकरणे च समावेशितानि / उत्तरार्धे पुनः-दश गणाः, यत्र च 1700 धातवः प्रायो निर्दिा वर्तन्ते, दश प्रक्रियाः, कृत्यप्रक्रिया, पूर्वकृदन्तानि, उणादयः, उत्तरकृदन्तानि, अन्येऽपि चोपयोगिनो विषया निवेशिताः सन्ति / धातुपाठ-न्याय-द्रव्य-गुण-जात्यादिलक्षणादयोऽपि विषयाः समुपन्यस्ताः सन्ति / - प्रायः 240 पृष्ठेषु पूर्वार्धम् , 500 पृष्ठेषु चोत्तरार्ध समाप्तिमाप्नुतः / भाषायाः सरलतायामप्यादितोऽवसानपर्यन्तं यावदुपयोगोदयं विहितः प्रयत्नः / प्रकाशमधिगच्छति चायेतिहासतत्त्वमहोदधिजैनाचार्यश्रीविजयेन्द्रमूरि-सुसान्निध्यतः / / ___ कार्ये चास्मिन् न्यायविशारद-न्यायतीर्थपदालङ्कृतेनास्मत्सतीयेन निम्रन्थेनापि विहितानेकगद्यपद्यहृयग्रन्थेन श्रीमन्न्यायविजयेन विदुषा शान्तमूर्तिमुनिराजश्रीजयन्तविजयादिमा च प्रसङ्गोचितां सहायता प्रदायाहं प्रोत्साहितस्तथा च अफसंशोधनादौ