________________ [11] विशेषतः परिश्रमवता भगवान्दासश्रेष्ठितनुजेन पण्डितलालचन्द्रेण विशदीकृत्यैतद् व्याकरणं विभूषां प्रापितम् ; अतोऽत्रैतान् प्रति कृतज्ञताऽऽविष्क्रियतेऽन्तःकरणतो धन्यवादपुरस्सरम् / सर्वाङ्गशुद्धं कार्य विरलं सुदुर्लभं चेति तु सर्वप्रतीतम् / अत एव सम्भवन्त्यनुट्योऽत्र संशोधयिष्यन्ते विद्वद्भिः, उल्लिख्य च ता मयि प्रेषयितुमपि कृपा करिष्यते, इत्यभ्यर्थनां कुर्वाणो विरमति -मङ्गलविजयः।