________________ प्रस्तावना। उपयोगि खलु भाषासौष्ठवाय. सद्व्यवहारसिद्धये च व्याकरणम् / संस्कृत-भारत्याः पुनर्मधुरतया, मनोरञ्जकतया, चित्ताकर्षकतया, सन्तोषानन्दावहतया च गीर्वाणवाणीतयैव प्रसिद्धाया अनुभवसिद्धायाश्च समधिगमो निःश्रेयसायापि तत्प्रतिपादकशास्त्रानुप्रवेशकारितया कल्पते / संस्कृतव्याकरणानि जैन-जनेतराभिरूपप्रणीतानि सन्ति. सम्प्रत्यपि बहूनि / तत्र च जैनव्याकरणानामप्रसिद्धावस्थायां पतितत्वेन पाणिनीयांदिव्याकरणानि पठन-पाठनगोचरतया सुव्यापक-प्रचारमवाप्तवन्ति / सुप्रसिद्धनामधेय-भगवत्यादश्रीहेमचन्द्राचार्यविरचित " सिद्धहेम" नामशब्दानुशासनस्य विंशतितो वर्षतो यदाध्ययनं चाध्यापनं च समारब्धं समभवत् जगत्पूज्य-गुरुदेव-शास्त्रविशाग्द-जैनाचार्यश्री 1008 श्री विजयधर्मसूरिस्थापित-संस्कृतविद्यालये काश्यां, तदा काशीस्थ वैयाकरणचूडामणिविबुधानामन्तःकरणानि तस्य सरलशैलीमुचितपद्धतिं सुगमामथ च साङ्गोपाङ्गां प्रतिपादनसरणी च प्रति नम्रीभूतानि, रब्धवञ्च तेषां चेतस्सु तत् सुयोग्यप्रतिष्ठास्थानम् , समारब्धवाश्च तस्य महिमयशःसम्भारेण प्रसरता सह पठनपाठनप्रवृत्तेरपि प्रचारः।