________________ स. . (101) सर्विका पाठिका कारिका हारिका मद्रिका / अस्येति किम् / गोका / निद्भिन्नककारे परे इत्येव जीवका नन्दका, अत्राशिषि कन् प्रत्ययः / आप्पर इस्येव / कारकः / इच्चापुंसोऽनिक्याप्परे / 2 / 4 / 107 / अपुंलिङ्गाच्छब्दाद् विहितस्यापः स्थाने इकारो इस्वश्च वा स्यात्, नकारानुबन्धवर्जितप्रत्ययावयवभूते आप्परे ककारे परतः। अल्पा खट्वा खट्विका खट्वका खट्वाका / गङ्गिका गङ्गका गङ्गाका / कप्प्रत्यये तरादौ च परे पूर्वस्य इस्वो वा भवति / तर-तम-रूप-कल्पादयः तरादयः। तरादौ च पुंवद् वा वेण्येव वेणिका वेणीका / नदी एव नदिका नदीका / अतिशयेन प्रशस्या श्रेयसी अतिशयेन श्रेयसी श्रेयसितरा श्रेयसीतरा पुंवद्भावे च श्रेयस्तरा / बहुव्रीही चाबन्तानाबन्तानां वा हस्वः बहुमालाकः बहुमालकः / स्त्रियां नृतोऽस्वस्रादेमः / 2 / 4 / 1 / . स्त्रियां वर्तमानाद् नकारान्ताहकारान्ताच्च स्वस्रादिवर्जिताद् नाम्नः परो ङीप्रत्ययः स्यात् / राज्ञी / दण्डिनी / करिणी। मालिनी / शूनी / की / ही / अस्वस्रादेरिति किम् स्वसा तिस्र श्चतस्रश्च ननान्दा दुहिता तथा / याता मातेति सप्तैव स्वस्रादय उदाहृताः // 1 // . अधातूदृदितः / 2 / 4 / 2 /