________________ (100) अथ स्त्रीप्रत्ययप्रकरणम् / Poooooo आत् / 2 / 4 / 18 / स्त्रियां वर्तमानादकारान्ताद् नाम्नः पर आप् प्रत्ययः स्यात् / सुभद्रा / सीता / चन्दना / यक्षा। शाला / माला / माया। दोला। : अजादेः / 2 / 4 / 16 / अनादिसम्बन्धिन्यां स्त्रियां वर्तमानेभ्योऽजादिभ्यः पर आप प्रत्ययः स्यात् / जातिलक्षण-वयोलक्षणादिङ्यादिबाधनार्थं व्यन्जनान्तानां चाप्राप्तौ विधानार्थं वचनम् / अजा खट्वा एडका अश्वा चटका मुषिका कोकिला इत्यादौ जातिलक्षणो ङीन भवति / बाला वत्सा होडा मन्दा विलाता एषु वयोलक्षणो. डीन भवति / ऋचा उष्णिहा देवविशा एषु व्यञ्जनान्तानामपि आब् भवति / ज्येष्ठा कनिष्ठा मध्यमा एषु पुंयोगेऽप्याप् / नम्पूर्वाद् मूलादपि आप अमूला। अस्यायत्तत्क्षिपकादीनाम् / 2 / 4 / 111 / यत्-तत्-क्षिपकादिवर्जितस्य नाम्नोऽकारस्य स्थाने निद्भिनप्रत्ययावयवे आप्परे ककारे परे इः स्यात् / आप्पर इति आबेव परो यस्माद् न विभक्तिः स आप्परः, तस्मिन्नाप्परे इत्यर्थः /