________________ नौ इत्येतावादेशौ वा स्याताम् / जिनोऽयं वां नौ पातु, युवाम् आवां वा / अक्षयसौख्यं वां नौ दद्याद्, युवाभ्याम् आवाभ्याम् वा। जिनोदिते धर्मे प्रसन्नं मनो वां नौ सदा भूयाद्, युवयोरावयो। डे-उसा वे-मे।२।१।१३। पदात् परयोयुष्मदस्मदो..-इमा सह ते मे इत्यादेशौ वा स्याताम् / धर्मस्ते कल्याणं ददातुं, तुभ्यं वा।धर्मो मे चारित्रं ददातु, मह्यं वा / जिनसेवा ते धनमस्ति, तव वा। शीलं मे धनमस्ति, मम वा। अमा त्वा-मा / 2 / 1 / 24 / पदात् परयोयुष्मदस्मदोद्वितीयैकवचनेनामा सह त्वा-मा इत्यादेशौ स्याताम् / जिनस्त्वा नरकाद् रक्षतात्, त्वां वा, मा पालेयद्, मां वा। नित्यमन्वादेशे / 2 / 1 / 31 / उक्तस्यानुवचनमन्वादेशः,तद्विषये पदात् परयोयुष्मदस्मदोर्यत् काय कथितं तन्नित्यं स्यात् / यूयं सुशीलास्तस्माद् गुरवो वो मानयन्ति / वयं विनीता अत उपाध्याया नो मानयन्ति / असदिवामन्त्र्यं पूर्वम् / 2 / 1 / 25 / युष्मदस्मद्भ्यां पूर्वमामव्यं पदमसदिव स्याद्, अतो वस्नसादयो न स्युः / भो आचार्या, सुष्मान रक्षतु धर्मः /