________________ (93) सु-जस्-डे-ङस्सु परत आदेशाः स्युः सदैवते / त्वाही यूय-वयौ तुभ्यं मह्यं तव-ममावपि // 2 // एते परत्वाद् बाधन्ते युवावौ विषये स्वके। वन्मदावपि बाधन्ते पूर्वविप्रतिषेधतः // 3 // द्वयेकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी। तयोरद्वयेकतार्थत्वाद् न युवावौ त्वमावपि // 4 // अथ तयोरादेशा निरूप्यन्तेपदाधुग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे / 2 / 1 / 21 // ___द्वितीया चतुर्थी षष्ठी च युग्विभक्तिः, तया साकं पदात् परयोर्युष्मदस्मदोः स्थाने क्रमाद् वस्-नसावादेशौ स्याताम् / तच्चेत् पदं युष्मदस्मदो चकस्मिन् वाक्ये स्याताम् / धर्मो वः पापाद् रक्षतु; धर्मो युष्मान् पापाद् रक्षतु / धर्मो नः सदा सुगति नयतु / धर्मोऽस्मान् सदा सुगतिं नयतु / धर्मो वो धनं ददातु / धर्मों युष्मभ्यं धनं ददातु / एवं धर्मो नो ज्ञानं ददातु, अस्मभ्यं वा / स्वामी वो बलवान् धर्मः, युष्माकं वा / स्वामी नो वीतरागो देवः, अस्माकं वा / पदादिति किम् / युष्मान् रक्षतु / एकवाक्ये इति किम् / ओदनं पच युष्माकं भविष्यति / द्वित्वे वास्-नौ / 2 / 1 / 22 / युग्विभक्तिद्विवचनैः सह पदात् परयोर्युष्मदस्मदोः स्थाने बाम्