________________ (92) अतियुवाकम् / अतियुवयि अतियुवयोः अतियुवासु / अत्यावच्छब्दरूपाणि- अत्यहम् अत्यावाम् अतिवयम् / अत्यावाम् अत्यावाम् अत्यावान् / अत्यावया अत्यावाभ्याम् अत्यावाभिः / अतिमह्यम् अत्यावाभ्याम् अत्यावभ्यम् / अत्यावद् अत्यावाभ्याम् अत्यावत् / अतिमम अत्यावयोः अत्यावाकम् / अत्यावयि अत्यावयोः अत्यावासु / युष्मानस्मान् वाऽतिक्रान्त इति विग्रहे युष्मदस्मदोर्बहुत्वे वर्तमानत्वात् समासे त्व-म युवावादेशा न भवन्तीति. अतियुष्मद्-अत्यस्मद्-शब्दो, ततोऽग्रे विभक्तयः / अतियुष्मच्छब्दरूपाणि- अतित्वम् अतियुष्माम् अतियूयम् / अतियुष्माम् अतियुष्माम् अतियुष्मान् / अतियुष्मया अतियुष्माभ्याम् अतियुष्माभिः / अतितुभ्यम् अतियुष्माभ्याम् अतियष्मभ्यम् / अतियुष्मद् अतियुष्माभ्याम् अतियुष्मत् / अतितव अतियुष्मयोः अतियुष्माकम् / अतियुष्मयि अतियुष्मयोः अतियुष्मासु। अत्यस्मच्छब्दस्य-अत्यहम् अत्यस्माम् अतिवयम् / अत्यस्माम् अत्यस्माम् अत्यस्मान् / अत्यस्मया अत्यस्माभ्याम् अत्यस्माभिः / अतिमह्यम् अत्यस्माभ्याम् अत्यस्मभ्यम्। अत्यस्मद् अत्यस्माभ्याम् अत्यस्मत् / अतिमम अत्यस्मयोः अत्यस्माकम् / अत्यस्मयि अत्यस्मयोः अत्यस्मासुः / तथा चोक्तं पाणिनीये समस्यमाने द्वयेकत्व-वाचिनी युष्मदस्मदी। समासार्थोऽन्यसङ्ख्यश्चेद् युवावौ त्वन्मदावपि // 1 //