________________ (95), जस विशेष्यं वाऽऽमन्त्र्ये / 2 / 1 / 26 / * युष्मदस्मद्भया पूर्व विशेष्यं जस्प्रत्ययान्तं सम्बोधनवाचि पदं बद्विशेषणभूते सम्बोधनवाचिनि पदे परेऽसदिव वा स्यात् / विक सार्थो योगारम्भः / जिनाः शरण्या युष्मान् शरणं प्रतिपद्यामहे / * पक्षे जिनाः शरण्या वः शरणं प्रतिपद्यामहे / नाऽन्यत् / 2 / 1 / 27 / युष्मदस्मद्भयां पूर्व जस्प्रत्ययान्तादन्यद् विशेष्यं सम्बोधनवाचि पदं तद्विशेषणभूते सम्बोधनवाचिनि पदे परेऽसदिव न स्यात्। आचाय भगवन् त्वा शरणं प्रतिपद्ये / आचार्य भगवन् वां शरणं स्वीकुवें। दृश्यर्थैश्चिन्तायाम् / 2 / 1 / 30 / चिन्तायां वर्तमानैदृश्यर्थकधातुभिर्योगे वस्नसादि न स्यात् / मनसा त्वां समीक्षते ध्यायति स्मरति वा / परम्परासम्बन्धेऽपि न स्यात / भक्तस्तव रूपं ध्यायति,' अत्र ध्यानेन सह सम्बद्धं रूपं तेन सह सम्बद्धस्य तवेत्यस्य परम्परासम्बद्धत्वाद् न भवति / - सपूर्वात् प्रथमान्ताद् वा / 2 / 1 / 32 / पूर्वपदसहितात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे वस्नसादय आदेशा वा स्युः / यूयं विवेकिनस्तद गुरवो वः सम्मानयन्ति, तद् गुरवो युष्मान सम्मानयन्ति वा /