________________ यूयं वयं जसा / 2 / 1 / 13 / * युष्मदस्मदोस्तदतत्सम्बन्धिना जसा सह यूयं वयम इत्यादेशों क्रमेण स्याताम् / यूयम् / वयम् / अम्प्रत्यये परे. त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् / 2 / 1 / 11 / एकत्वविशिष्टार्थे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य तदतसम्बन्धिनि स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोः क्रमात् त्व म इत्येतौ सस्वरावादेशौ स्याताम् / व+अद्+अम् / म+अद्+अम् इति स्थितेऽकारस्य लुकि अमो मादेशेऽन्तस्य चाऽऽत्त्वे त्वाम् माम् / युवाम् / आवाम् / शसो नः / 2 / 1 / 17 / / - युष्मदस्मद्भयां परस्य तदतत्सम्बन्धिनः शसः स्थाने न इत्यादेशः स्यात् / युष्मदस्मदोः / इत्यात्त्वे युष्मान् / अस्मान् / टाङ्योसि यः / 2 / 1 / 7 / .. युष्मदस्मदोस्तदतत्सम्बन्धिषु टा ङि ओस् इत्येतेषु परेषु यका- ' रोऽन्तादेशः स्यात् / दकारस्य यकारे शेषं पूर्ववत् त्वया मया / म्यामि युवावादेशेऽन्तस्य आत्त्वे युवाभ्याम् / आवाभ्याम् / युष्माभिः / अस्माभिः / तुभ्यं मह्यं ड्या।२।१।१४।। .. युष्मदस्मदोः स्वान्यसम्बन्धिना चतुर्येकवचनेन प्रत्ययेन