________________ (9) अथ युष्मदस्मदोः प्रक्रिया। . युष्मदस्मदोस्त्रिषु लिङ्गेषु समानानि रूपाणि, अलिङगत्वात्। युष्मद्+सि इति स्थिते त्वमहं सिना प्राक् चाकः / 2 / 1 / 12 / . युष्मदस्मदोस्तदतत्सम्बन्धिना सिना सह क्रमेण त्वम् अहम् 'इत्यादेशौ स्याताम् / तौ चाकः प्रसङ्गेऽकः प्रागेव स्याताम् / त्वम् अहम् / औप्रत्यये ____ मन्तस्य युवावौ द्वयोः / 2 / 1 / 10 / द्वित्वविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मकारावसानस्यावयवस्य तदतत्सम्बन्धिनि स्वरादौ स्यादौ परे युव् आव् इत्येतावादेशौ क्रमेण स्याताम् / युव+अद्+औ, आव+अद्+औ 'लुगस्य / इत्यादिना पूर्वस्याकारस्य लुकि युवद्+औ, आवंद्+औ इति स्थिते ___ अमौ मः।२।१।१६। : - युष्मदस्मद्भयां परयोः तदतत्सम्बन्धिनोः अम् औ इत्येतयोः स्थाने म् इति व्यन्जनमात्रादेशः स्यात् / युष्मदस्मदोः / 2 / 1 / 6 / युष्मदस्मदोस्तदतत्सम्बन्धिनि व्यञ्जनादौ परे आकारोऽन्तादेशः स्यात् / दीर्चे युवाम् / आवाम् /