________________ (17) ब्रह्म ब्रह्मणी ब्रह्माणि / कर्म कर्मणी कर्माणि / इत्यादीनि / / व्योमनशब्दस्य तु नामन्वत् / त्यदादीनां तु स्यमोलपि सेरमावाद् ‘आ द्वेरः / इत्यत्त्वं न 'विरामे वा ' त्यद् त्यत्, द्विवचनादौ अत्त्वे स्ये त्यानि पुनरप्येवम् / एवं तत् ते तानि / यद् ये यानि / एतद् एते एतानि / किं के कानि / इदम् इमे इमानि / इदम् इमे इमानि / शेषं पुंलिङ्गवत् / चकारान्तः प्रत्यशब्द:प्रत्यक् प्रत्यग्, ' अच्च् प्राग' इत्यादिनाऽचश्चत्त्वे पूर्वस्य च दीधे प्रतीची / शौ तु 'धुटां प्राग् / इति नोऽन्तादेशे ' तवर्गस्य' इत्यादिना नकारस्य प्रकारे प्रत्यश्चि / प्रत्यग् प्रतीची प्रत्यश्चि / पूजायां तु प्रत्यङ् प्रत्यश्ची प्रत्यश्चि / शेषं पुंवत् / जगद् जगत् अगती जगन्ति / पुनरप्येवम् / महत महद् महती महान्ति / पयः पयसी पयांसि 'शिड्हे ' इत्यादिनाऽनुस्वारः / वचः वचसी वचांसि / यशः यशसी यशांसि / तेनः तेजसी तेजांसि / तेजोभ्यां तेनोभिरित्यादीनि। सकारान्तोऽदसशब्दः- अदः। द्विवचनादौ 'आ ढेरः ' इत्यत्त्वे 'मोऽवर्णस्य ! इंति दो मत्त्वे 'मादुवर्णोऽनु' इत्युवर्णे अमू / 'जस्-शसोः शिः / इति शौ कृते ' स्वराच्छौ, इति नान्तादेशे 'नि दीर्घः / इति दीर्थे ' मादुवर्णोऽनु / इत्युवर्णे अमनि / पुनरप्येवम् / शेषं पुंलिङ्गवत् / इति व्यञ्जनान्तनपुंसकलिङ्गप्रकरणं समाप्तम् /