________________ (9.) सह तुभ्यं मह्यम् इत्यादेशौ क्रमेण स्याताम् / तुभ्यम् / मह्यम् / युवाम्याम् / आवाभ्याम् / अभ्यम् भ्यसः / 2 / 1 / 18 / .. युष्मदस्मदोः परस्य स्वान्यसम्बन्धिनः चतुर्थीबहुवचनस्य म्यसोऽभ्यम् आदेशः स्यात् / शेषे लुक् / 2 / 1 / 8 // - यस्मिन् प्रत्यये परे युष्मदस्मदोरात्त्वयत्त्वादिकार्यमुक्तं ततोsन्यः शेषः / तस्मिन् शेषे परे तयोरन्तस्य लुक् स्यात् / युष्मभ्यम् / अस्मभ्यम् / उसेश्चात् / 2 / 1 / 19 / युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो सेस्तत्सहचरितपरुचमीबहुवचनस्य भ्यसश्च स्थाने अद् इत्यादेशः स्यात / अकारो व्यन्जनादित्वनिवृत्यर्थः / त्व-मादेशे अकारलुकि शेषे च लुकि पुनः अकारलकि त्वत् / मत्। युवाभ्याम् / आवाभ्याम् / युष्मत् / अस्मत / तव मम डसा / 2 / 1 / 15 / युष्मदस्मदोस्तदतत्सम्बन्धिना ङसा सह क्रमेण तव ममादेशौ स्याताम् / अकः प्राग् / तव / मम / ओसि. युवावादेशेऽन्त्यस्य 'च यस्वे युवयोः / आवयोः।