________________ 981). त्रि-चतुरस्तिस-चतम स्यादौ / 2 / 1 / 1 / / स्त्रियां वर्तमानयोः त्रि-चतुरोः स्थाने तिसृ चतसृ इत्यादेशो स्याताम्। तत्रस्थः ऋकारः ऋवद् भवतीति न अरादेशः। चतस्रः। चतस्रः / चतसृभिः / चतसृभ्यः / चतसृभ्यः / चतसृणाम् / चतसृषु / एवं त्रिशब्दस्यापि तिस्त्रः / तिस्रः / तिसृभिः / तिसृभ्यः। तिसृणाम् / तिसृषु / स्त्रियामिति त्रिचतुरो:विशेषणत्वेन प्रियास्त्रयोः यस्या इत्यत्र समुदायस्य स्त्रीत्वेऽपि त्रिशब्दस्य पुंस्त्वाद् नादेशः, तत्र प्रियत्रिः प्रियत्री प्रियत्रयः / प्रियत्रिं प्रियत्री प्रियत्रीः / प्रियच्या प्रियत्रिभ्यां . प्रियत्रिभिः / प्रियव्यै प्रियत्रये प्रियत्रिभ्यां प्रियत्रिभ्यः / प्रियत्र्याः प्रियः प्रियत्रिभ्यां प्रियत्रिभ्यः / प्रियन्याः प्रियोः प्रियव्योः प्रियत्रीणाम् / प्रियव्यां प्रियत्रौ प्रियव्योः प्रियत्रिषु इति मतिवद्रूपाणि / यदा च प्रियास्तिस्रो यस्येति विग्रहावस्थायां समुदायस्य पुंस्त्वेऽपि त्रिशब्दस्य स्त्रीत्वाद्भवत्येवादेशः / प्रियतिसा प्रियतिस्रौ प्रियतिस्रः। प्रियतित्रं प्रियतिस्रौ प्रियतिस्रः / प्रियतिस्रा प्रियतिसृभ्यां प्रियतिसृभिः / प्रियतिने प्रियतिसभ्यां प्रियतिसृभ्यः / प्रियतिस्रः प्रियतिसृभ्यां प्रियतिसृभ्यः। प्रियतिस्रः प्रियतिस्रोः प्रियतिसृणाम्। प्रियतिस्त्रि प्रियतिस्रोः प्रियतिसृषु / प्रियास्तिस्रो यस्य त दिति क्लीवे तु-प्रियतिस प्रियत्रि, प्रियतिसृणी प्रियतिसृणि। द्वितीयायामप्येवम् / सम्बोधने प्रियतिसः प्रियत्रि, प्रियतिसृणी प्रियतिसृणिः