________________ (80) अथ व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् / हकारान्तः स्त्रीलिङ्ग उपानच्छब्दः . नहाहोर्धतौ / 2 / 1 / 85 / ___ नहेर्ब्रस्थानीयस्याहरूपादेशस्य च. धातोः सम्बन्धिनो हकारस्य घुटि प्रत्यये पदान्ते च यथासंख्यं धकार-तकारादेशौ स्याताम् / उपानद् उपानत् उपानही उपानहः / उपानहम् उपानही उपानहः / मानहा उपानद्भयाम् उपानद्भिः / उपानहे उपानद्याम् उपानद्यः / उपानहः उपानद्याम् उपानद्भयः। उपानहः उपानहोः उपानहाम् / उपानहि उपानहोः उपानत्सु / सम्बोधनं प्रथमावत् / बकारान्तो दिवशब्दः 'दिव औः सौ / 2 / 1 / 117 / दिवोऽन्तस्य स्थाने सौ परे औरित्यादेशः स्यात् / यत्वे घोः दिवौ दिवः / दिवं दिवौ दिवः / दिवा / उः पदान्तेऽनूत् / 2 / 1 / 118 / पदान्ते वर्तमानस्य दिवोऽन्त्यस्य उ इत्यादेशः स्यात्, स चोकारो दीर्घो न स्यात / युभ्यां द्युभिः / दिवे द्युभ्यां युभ्यः / दिवः धुभ्यां धुभ्यः / दिवः दिवोः दिवाम् / दिवि दिवोः धुषु / है द्यौः दिवौ दिवः / एवं सुदिव्-प्रियदिव-प्रभृतयः / रेफान्तो नित्यं बहुवचनान्तः स्त्रीलिङ्गश्चतुर्शब्दः