________________ (79) बहुष्वर्थेषु वर्तमानाददसो मकारात परस्यैकारस्य ईकारः स्यात्। अमी / अमुम् अमू अमून् / अद+टा इति स्थिते इनादेशे प्राप्ते प्रागिनात् / 2 / 1 / 48 / अदसो मकारात् परस्य वर्णमात्रस्य स्थाने इनादेशात् प्राग् उ इत्यादेशः स्यात् / पश्चाद् 'टः पुंसि ना ' इति नादेशे अमुना अमूभ्याम् अमीभिः / अमुष्मै अमूभ्याम् अमीभ्यः। अमुश्मात् अमूभ्याम् अमीभ्यः / अमुष्य अमुयोः अमीषाम् / अमुष्मिन् अमुयोः अमीषु / अक्प्रत्ययान्तस्य तु सौ. असुको वाऽकि / 2 / 1 / 44 / त्यदादीनामदसः ‘सौ परे असुक इति वा निपात्यते असुकः असको अमुको अमुके। अमुकम् अमुकौ अमुकान् / अमुकेन अमुकाभ्याम् अमुकैरित्यादीनि सर्ववद्रूपाणि / - इति व्यञ्जनान्तपुंलिङ्गप्रकरणं समाप्तम् /