________________ उशनसः सौ विशेषः 'ऋदुशन:-' इत्यादिना से डित्त्वादन्त्यस्वरादेर्लोपे उशना उशनसौ उशनसः / सम्बोधने - वोशनसो नश्चामन्त्र्ये सौ / 1 / 4 / 80 / - आमन्त्र्यार्थे वर्तमानस्योशनसः सौ परे नकारो वा स्यात्, छुक् च वा स्यात् / हे उशनन् लुकि हे उशन उभयाभावे हे उशनः उशनसौ उशनसः / शेषं चन्द्रमस्वद् / पुरुदंशस्-अनेहस्शब्दयोः उशनस्शब्दवत् / सम्बोधनैकवचने चन्द्रमस्शब्दवत् / पुरुदंशा पुरुदंशसौ पुरुदंशसः / हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः / अनेहा अनेहसौ अनेहसः। हे अनेहः हे अनेहसौ हे अनेहसः इत्यादीनि / सन्तोऽदस्शब्दः-अदस्+सि इति स्थिते ___ अदसो दः सेस्तु डौ / 2 / 1 / 43 / त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् , सेस्तु डौ स्यात् / असौ / सर्वत्र स्यादावत्त्वे कृते अद+औ इति स्थिते ___ मोऽवर्णस्य / 2 / 1 / 45 / . , अवर्णान्तस्य त्यदादेरदसो दकारस्य मकारः स्यात् / 'मादुवर्णोऽनु' इति एकमात्रिकस्य स्थाने आसन्न एकमात्रिको द्विमात्रिकस्य स्थाने च द्विमात्रिक उकारः। अमू / अद+जस् इति स्थिते जस इत्वे एकारादेशे च बहुवेरीः / 2 / 1 / 49 / /