________________ अलंकारसर्वस्वम् / खरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः / प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तो भेदाः, तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैन्यूनोऽयं प्रकारः / इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणत्वात् / प्रायश्च खरूपोत्प्रेक्षात्र न संभवति / तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः / एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिदृश्यते / कचित्पदार्थान्वयवेलायां सादृश्याभिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति / क्वचिच्छलादिशब्दप्रयोगे सापह्नवोत्प्रेक्षा भवति / अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः / सांप्रतं त्वियं दिङ्मात्रेणोदाहियते / तत्र जात्युत्प्रेक्षा यथा दार्शतम् / अत एवालंकारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः / तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी / अन्यथा त्वेतद्भेदषोडशकस्याभावादशीतिर्भेदाः / अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोनिमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति / एतावन्त इति षण्णवतिः / अयं प्रकार इति / प्रतीयमानोत्प्रेक्षालक्षणः / प्राय इति / वाच्या यथा स्वरूपोत्प्रेक्षा लक्ष्येषु प्रचुरा तथेयं न भवतीत्यर्थः / न पुनरत्यन्तमेवास्या अभावो व्याख्येयः / क्वचिदपि लक्ष्येऽस्या दृष्टेः / यथासंभवमिति / लक्ष्ये भेदनिर्देश इति कार्यः / तस्याश्चाष्टचत्वारिंशद्भेदाः संभवन्ति / तदुक्तमलंकारानुसारिण्याम्–'प्रतीयमानोत्प्रेक्षाभेदा अष्टचत्वारिंशत्' इति / अर्थाश्रयापीति / अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न काप्युपयुक्तं तथापि श्लिष्ट, शब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः / उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः / आनन्त्यमिति बहुप्रकारत्वम्। सांप्रतमिति प्राप्तावसरम् / दिमा 1. 'एव तावन्तो' क-ख. 2. 'भवति' क.