________________ अलंकारसर्वस्वम् / मारस्योच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः // द्वितीयो यथा'विलसदमरनारीनेत्रनीलाब्जखण्डा न्यधिवसति सदा यः संयमाघःकृतानि / न तु रुचिरकलापे वर्तते यो मयूरे - वितस्तु स कुमारो ब्रह्मचर्यश्रियं वः // ' तृतीयो यथा'उद्धान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैःकुच प्रेढोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना / साधं त्वद्रिपुभिस्त्वदीययशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः / / अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापहवोत्प्रेक्षा इत्यपि स्थापयिष्यते 'अहं त्विन्दं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते / एतस्मिन्नपि भेदेऽपह्नवारोपयोः पौर्वापर्यप्रयोग नोत्प्रेक्षेति / साध्यवसायाद्युत्प्रेक्षासामग्र्यभावात् / वक्ष्यत इत्युत्प्रेक्षायाम् / तथा चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः / किंतूत्प्रेक्षासामग्र्यभावे मन्ये शब्दप्रयोगो वितर्कमेव प्रतिपादयतीति। अतश्च 'अवाप्तः प्रागल्भ्यं-' इत्यादावपह्वत्युदाहरणत्वमभिदधतः समानेऽपि न्याये 'नो मां प्रति तथा' इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्तिरेवेति मन्यन्ते। तेषां पूर्वापरविचारकुशलानां किमभिदध्मः। एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रन्थविस्तरभयादस्मद्द१. 'पक्षतया' ख. 2. 'अतिशयोक्ति' क. 5 अ० स० --