________________ काव्यमाला। विपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् / तत्रापहवपूर्वके आरोपे निरन्तरमुदाहृतम् / आरोपपूर्वके त्वपहवे यथा'ज्योत्स्नाभस्मच्छरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् / द्वीपाहीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन / ' कचित्पुनरसत्यत्वं वस्त्वन्तररूपंताभिधायि वपुःशब्दादिनिबन्धनं यथा 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः।। यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे .. शिखा धूमस्येयं परिणमति रोमावलिवपुः // ' इति / र्शनदत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितम् / एतस्मिनिति छलादिशब्दप्रतिपाद्ये / संभवमानं पुनदर्शयितुमेतदुदाहृतम्। वस्त्वन्तररूपताभिधायीति / वपुःशब्दस्य शरीराभिधायित्वात् / अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम् / तत्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं स्यात् / इह पुनः शर्वप्लुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एव प्राधान्यं विवक्षितमिति न परिणामो नापि रूपकम् / व्याजार्थपर्यवसायिवपुःशब्दबलादारोपविषयापहृतावारोप्यमाणस्य प्रतीतेः।आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तम् / अथात्रापि भिन्नयोः सामानाधिकरण्यायोगादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत् , नैतत् / 1. 'समानाधिकरणयोः' ख.