________________ काव्यमाला। 'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा / अहं विन्दं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् // अत्रैन्दवस्य शशस्यापहवे उपक्षिप्ते शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् / तत्त यथा'पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभाखरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीपोर्जगत् / लक्षणम् / अत्र तु निषेध्यस्यैव विषस्य ब्रह्मखविषये आरोप्यमाणत्वाद्विधानम् / अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानमिति चेत् , तत्र ब्रह्मस्वविषस्य गौणस्य विधानमिति भणितेः कोऽर्थः / किं ब्रह्मखविषस्य विधानं किं वा द्वन्द्वपदार्थवद्ब्रह्मवस्य च विषस्य च ब्रह्मखे वा वि. षस्येति / तत्र नाद्यः पक्षः / विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसंभवात् / तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् / नापि गौणता खार्थ एव प्रवृत्तेः / अन्यदन्यत्र वर्तमानं गौणमित्युच्यते / न चात्र ब्रह्मखविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात् / एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तम् / नाप्यत्रोभयविधिः / ब्रह्मखविषये विषस्यैव विधीयमानत्वात् / तृतीयेऽपि न गौणस्य सतो विषस्य विधानम् / ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् विहितस्य तस्य गौणत्वात् / एवं ब्रह्मवस्य दार्चुन विषसाम्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तम् / न ब्रह्मखं विषमिदमिति पुनरुच्यमानेऽपढुतिः स्यात् / तस्मान्मुख्यस्येवेत्यपास्य विषयस्यापह्नवेऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यम् / तस्येत्यपह्रत्याख्यस्यालंकारस्य / वाक्यभेद इत्येकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः। न निरवद्यमिति / यथोक्तक्रमनिर्वाहाभावात् / अत एवोदाहरणान्तरमाहपूर्णेन्दोरित्यादि / मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् /