________________ अलंकारसर्वस्वम् / विषयस्यापहवेऽपह्नुतिः। वस्त्वन्तरप्रतीतिरित्येव / प्रक्रान्तापह्नववैधम्र्येणेदमुच्यते / आरोपप्रस्तावादारोपविषयापहृतावारोप्यमाणप्रतीतावपढ्त्याख्योऽलंकारः / तस्य च त्रयी बन्धच्छाया-अपह्नवपूर्वक आरोपः / आरोपपूर्वकोऽपहवः / छलादिशब्दरसत्यत्वप्रतिपादकैर्वापहवनिर्देशः / पूर्वोक्तभेदद्वये वाक्यभेदः / तृतीयभेदे त्वेकवाक्यम् / आद्यो यथा प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषैकदेशस्य ये / कामायैव कृतार्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेद जन्म भवतः कश्चिद्विपश्चिजनः // ' अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम् / विषयस्येत्यादि / वस्त्वन्तरेति / भ्रान्तिमतोऽनुवर्तत इति शेषः / अत एव केचन मण्डूकप्तुतिन्यायेनानुवर्तनस्यानुचितत्वाभान्तिमदनन्तरमपहृतिग्रन्थकृता लक्षिता उल्लेखश्चातिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः। न चैतत् / यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः / यद्वक्ष्यति–'एवमध्यवसायाश्रयेणालंकारद्वयमुक्ता गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते। तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां . द्वैविध्येऽपि पदार्थगतमलंकारद्वयं क्रमेणोच्यते' इति / तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्धान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् / अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेर्निरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः / यद्येवं तद्युल्लेखापहृत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्याह-प्रक्रान्तेत्यादि / इदमित्यपहृतिलक्षणम् / तदेव व्याचष्टे-आरोपेत्यादिना / विषयस्यापह्नवे विषयिणोऽन्यस्य विधिरित्यर्थः / तेन 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते / विषमेकाकिनं हन्ति ब्रह्मखं तु ससंततिम् // ' इत्यत्र विषस्य निषेधपूर्व ब्रह्मखविषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापहृतिः / नापहृतेहि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं - 1. विषयापहवे' क. 2. 'प्रक्रान्तानपह्नव' क. 2. 'नयविदः' ख. 3. 'देव' ख. 5. 'अप्रतीते:' ख. 6. 'तद्देवं यदि' ख. 7. 'पुत्रपौत्रकम्' ख. 8. 'ब्रह्मस्वं विषं' ख.