________________ काव्यमाला। इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् / न तु सर्वथा तदभावः / अतश्चालंकारान्तरम् / यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसँद्भावः / तस्मादेवमादावुल्लेख एव श्रयान् / एवमलंकारान्तरविच्छित्याश्रयेणाप्ययमलंकारो निदर्शनीयः। नाया। सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि / सेा जह्वसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः // ' अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम् / तदयं द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालंकाराश्रयोऽपि संभवतीत्याह-एवमलंकारान्तरेत्यादि / तत्राद्यः प्रकारः संदेहाश्रयो यथा-'किं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः / किं पुष्पाकर एष पुष्पविशिखः किं वेति रामार्जनः किं रामः किमु जामदम्य इति वा यं धन्विनो सन्वते // ' अत्रैकस्यैव संदिह्यमानत्वेनानेकधात्वोल्लेखनम् / अतिशयोक्त्याश्रयश्चायमेव यथा-'वज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खङ्गं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा / पाशं पाणावपश्यन्ध्वजमपि बलवित्कोषवेदी गदां च खाच्छन्द्यज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्ते // ' अत्र त्वमेवेन्द्र इत्याद्यतिशयोक्त्या लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनम् / विषयभेदेन च रूपकाश्रयो यथा'मूर्यद्रेर्धातुरागस्तरुषु किसलयं विट्ठभौघः समुद्रे दिल्यातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः / सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानः॥' अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वम् / 'कारकान्तर' इत्यपपाठः / प्रकृतकारकविच्छित्त्याश्रयस्यैवानुक्तत्वात् / अयं खरूपहेतुफलोल्लेखनरूपत्वात्रिधा / तत्र खरूपोल्लेखः समनन्तरमेवोदाहृतः / हेतूल्लेखस्तु यथा-'सर्गहेतोः सदा धर्मः स्थितिहेतोरपि प्रजाः। द्विषः संहारहेतोश्च विदुस्त्वां जातमात्मनः // ' अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनम् / फलोल्लेखस्तु यथा-'धर्मायैव विदन्ति पार्थिव यथाशास्त्रं '. 1. 'श्लेषोऽत्र...... स्यात्' क. 2. 'यद्येवं' क. 3. 'असद्भावः' क. 4. 'जनाः ' क-ख.