________________ अलंकारसर्वस्वम् / अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात् / तद्धेतुकत्वाच्चास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव / यद्येवम् , अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु / नैष दोषः / ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टकनात्तस्य च विच्छित्त्यन्तररूपत्वासर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः / यथा वा'णाराअणो त्ति परिणअवआहिँ सिरिवल्लहो ति तरुणीहिं / बालाहिं उण कोदूहलेण एमे अ सच्चविओ // ' एवम् 'पृथुरुरसि अर्जुनो यशसि' इत्यादाववसेयम् / इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन / नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते / सत्यम् / अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते तिशयनिमित्तकत्वात् / यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि / यद्येवमिति / श्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः। एष इति अतिशयोक्तिसद्भावः। तस्येति ग्रहीतृभेदाख्यस्य विभौवस्य / विच्छित्त्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतुः। तदेवं तैत्तच्छङ्कानिरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णाराअणोत्तीति / अत्र च नारायणत्वाद्युल्लेखने वृद्धाप्रभृतीनां यथाक्रमं व्युत्पत्त्यर्थित्वरुचयः / एतदेवान्यत्रापि योजयति-एवमित्यादि / विशेष इति पूर्वस्मात् / विषयभेदेनेति वचना. दिभिन्नत्वेन / अनेकधात्वोल्लेखे गुर्वादिरूपतया श्लेष इति गुर्वादीनामुभयार्थवाचित्वात् / तत्प्रतिभोत्पत्तिहेतुरिति / श्लेषमन्तरेणात्रोल्लेखानिष्पत्तेः / तदभाव इत्युल्लेखाभावः / अतश्चेति / श्लेषाभावेऽप्येतद्विच्छित्तिसंभवात् / एवंविध इति विषयभेदरूपे। तत्तु यथा-'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे - 1. 'नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः। बालाभिः पुनः कौतूहलेन एवमेव सत्यापितः // ' इति च्छाया. 2. विषयभावगम्यविच्छित्यन्तरत्वमेव' क. 3. 'तत्तदीयशङ्का' ख.