________________ 60 काव्यमाला। वातिकैः' इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः। सत्यम् / अस्ति तावत् 'तपोवनं' इत्यादौ रूपकविविक्तोऽस्य विषयः। यदत्र वस्तुतस्तद्रूपतायाः संभवः / यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु / न त्वेतावतास्याभावः शक्यते वक्तुम् / ततश्च न दोषः कश्चित् / एवं हि तत्र विषये प्रान्तिमदलंकारोऽस्तु / अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् / नैतत् / दिना / एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यमित्यादिना / तावच्छब्दो रूपकाभावविप्रतिपत्तिद्योतनार्थम् / तद्रूपताया इति तपोवनादिरूपतायाः / अत्रापि यदन्यैरवयवावयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रूपकालंकारमाशय विविक्तस्य चिन्यत्वमुक्तं तदयुक्तम् / अवयवावयविभावसंबन्धाभावालक्षणाया एवासत्त्वात्। न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् / किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तवादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीहगाभासः / अथापि यद्यस्त्यवयवावयविभावविवक्षा तल्लक्षणामात्रं न रूपकम् / तस्य लक्षणापरमार्थत्वेऽपि विषयिणा विषयस्य रूपवतः करणादलंकारत्वम् / अन्यथा तु लक्षणामात्रमेव / नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्यारोपेणारोपविषयस्य नातिशयः कश्चित् / वस्तुत एव तद्रूपतायाः संभवात् / अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः / न केवलमन्यालंकारविविक्तोऽयमेवास्य विषयों यावद्यत्रापि रूपकालंकारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-योत्यादि / इयमपि भगिरिति एकस्यानेकधाग्रहणरूपा / एतावतेति रूपकप्रयोगमात्रेण / ततश्चेति रूपकोल्लेखयोः संकरात् / ननु यंत्र रूपकयोगो नास्ति तदलंकारान्तरयोगः संभवतीत्याह-एवं हीत्यादि / अतपस्येति / अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् / अतस्मिंस्तगृहो भ्रम इत्येतदेव हि भ्रमसतत्त्वम् / अपूर्वस्येति भ्रान्तिमदसंभविनः / तद्धेतुकत्वादिति अनेकधाग्रहणाख्या 1. 'कर्तुम्' क.. 2. 'अन्यत्रापि' खः 3. 'वैचित्र्यस्य' क. 4. 'यद्यत्र रूपकप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह' क.