________________ अलंफारसर्वस्वम् / यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः / न चेदं निर्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतक्रियते। तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रेयोजिकाः / तदुक्तम् 'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते। . आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते // इति // यथा-'यस्तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने / अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः / रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते / नन्वतन्मध्ये 'वनपञ्जरमिति शरणागातैरसुरविवरमिति इति। कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामीति वारसिक्यां प्रतिपत्तौ न संभवतीत्युभय, त्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तम् / रूपबाहुल्येति / अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव / अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् / अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणम् / एकस्य च न खातन्त्र्येणानेकधाग्रहणमपि तु तत्प्रयोजनवशादित्याह-न चेदमित्यादि / एतदिति / अनेकधा ग्रहण. मेकस्यैव नानाविधधर्मयोगिनः खातन्त्रयेण प्रतीतिगोचरीभावात्कथमेकैकधर्मविषय. मनेकधाग्रहणं युक्तमित्याशझ्याह-तत्रेत्यादि / तत्रेत्यनेकधाग्रहणे / स्वातन्येण विकल्पनं रुचिः / अर्थक्रियाभिलाषपरत्वमर्थित्वम् / वृद्धव्यवहारशरणता व्युत्पत्तिः। उक्तमिति श्रीप्रत्यभिज्ञायाम् / तत्तद्गुणयोगादिति विविक्तत्वादिनानाविधधर्मसंबन्धात् / मुनीनां तपोवनविषयमर्थित्वम् / वेश्यानां च कामायतनविषयमर्थित्वम् / एवं लासकानां तु संगीतशालाविषया व्युत्पत्तिरर्थित्वं च / प्रायश इत्यनेन रुचिरत्र नास्तीति सूचितम् / ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरणत्वेमानीतस्तत्रालंकारान्तरसंबन्धोऽप्यस्तीति कथमेतद्विषय एवेत्याह-नन्वित्या 1. योगत्वात्' क. 2. 'प्रजीविकाः' क. 3. 'आखण्ड्येन' क. 4. काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतायामीश्वरप्रत्यभिज्ञायाम् .