________________ ___ काव्यमाला। गाढमर्मप्रहारादिना तु प्रान्ति स्यालंकारस्य विषयः / यथा- 'दामोदरकराघातचूर्णिताशेषवंक्षसा। दृष्टं चाणूरमल्लेन शतचन्द्रं नमस्तलम् // . सादृश्यहेतुकापि भ्रान्तिर्विच्छित्यर्थ कविप्रतिभोत्थापितैव गृह्यते / यथोदाहृतं न खरसोत्थापिता शुक्तिकारजतवत् / एवं स्थाणुर्वा स्यात्पु. रुषो वा स्यादिति संशयेऽपि बोद्धव्यम् / एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः / शुद्धसामान्यरूपत्वम् / बिम्बप्रतिबिम्बभावो यथा-पुसिआ कण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा / माणिणिवअणम्मि सकजलंसुसङ्काए दइएण // ' अत्र सकज्जलत्वेन्द्रनीलकिरणाहतत्वयोर्बिम्बप्रतिबिम्बभावः। सादृश्यनिमित्तत्वं चास्य द्रढयितुं प्रत्युदाहरति-गाढेत्यादिना / सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोस्थापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीत्याह-सादृश्येत्यादि / उदा. हृतमिति / ओष्ठे बिम्बफलाशयेत्यादि / एतदेव संदेहेऽपि योजयति–एवमित्यादि। संशय इति / अर्थादारोपगर्भ एव / तत्रैव ह्यस्य सादृश्यं निमित्तम् / अध्यवसायमूले हि संदेहे सादृश्यात्संबन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात् / यथोदाहृतं प्राक् / एवमारोपगत्व एव सादृश्यं विना नायमलंकार इत्यवमन्तव्यम् / तस्मादविशेषेणैव साधयं विहायापि निमित्तान्तरमवलम्ब्य नास्यालंकारत्वं वाच्यम् / सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वारसिकस्येति। एकस्यापीति / अनेकधा ग्रहणमिति न पुनरनेकधा कल्पनम् / ग्रहणं हि खारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु खारसिक्यामेव / यदाहुः'अतःशब्दानुसंधानवन्ध्यं तदनुबन्धि वा। जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते॥' 1. 'चक्षुषा' ख. 2. 'प्रतिभैव' ख. 3. 'प्रोग्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः। मानिनीवदने सकज्जलाश्रुशङ्कया दयितेन // ' इति च्छाया. 4. 'निमित्तकत्वमेव चास्य' ख. 5. 'गर्भ एव सादृश्येऽपि नायमेवालंकारः' क. 6. 'अशेषेणैव' क.