________________ अलंकारसर्वस्वम् / 'ओष्ठे-बिम्बफलाशयालमलकेषूपाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलम्रान्त्या च शोणे मणौ / निष्पत्त्या सकृदुत्पलच्छदशामात्तक्लमानांमरौ राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूछितम् // ' विह्वलीकृतत्वाच्छापत्वेन भाव्यत इति विषमालंकारो ज्यायान् / 'दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंगं च भुजोऽङ्गदं घटयितुं वामेऽपि वामेतरः / इत्यं खं स्वमशिक्षितं भगवतोरर्धं वपुः पश्यतोः साधारस्मितलाञ्छितं दिशतु नो वक्रं मनोवाञ्छितम् // ' इत्यत्रापि संस्कार एवालंकारो न भ्रान्तिमान् / अत्र हि भगवत्या नेद्वयाअनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राअनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम् / अथात्र संस्कारप्रबोधं विना तदभावादञ्जनदानसंस्कारहेतुका भगवदर्धस्य खार्धत्वेनाभिमानरूपा भगवत्या भ्रान्तिरेवेति चेत् , नैतत् / प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनदा संस्कारो न प्ररोहमुपागत इति कारणस्यैव स्खलद्गतित्वात्तत्कार्यस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवकाशः / प्ररूढ एव हि संस्कारो भ्रमः / वात्ममात्रावस्थितस्तु संस्कारालंकारः / अत एव दातुं वाञ्छतीत्युक्तम् / एवं चात्र नेत्रद्वयाञ्जनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः / परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् / अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम् / अवान्तर एवानयोर्विशेषोऽलंकारभाष्य एवोक्त इति तत एवानुसतव्य इति / एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् / एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः। तत्रानुगामिता यथा-'नीलोत्पलमिति भ्रान्त्या विकासितविलोचनम् / अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतः // ' अत्र विकासीत्यनुगामित्वेन निर्दिष्टो धर्मः / शुद्धसामान्यरूपत्वं तु यथा-'अयमहिमरुचिर्भजन्प्रतीची कुपितवलीमुखतुण्डताम्रबिम्बः / जलनिधिमकरैरुदीक्ष्यते द्रावरुधिरारुणमांसपिण्डलोभात् // ' अत्र ताम्रत्वारुणत्वयोः 1. 'व्युत्पत्त्या' क. 2. 'भगवतोः' ख. 3. 'नेत्राअन' क. 4. 'संस्कारप्ररोहमुपगतः' क. 5. संस्कारः' क.