________________ : काव्यमाला। असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् / प्रान्तिश्चित्तधर्मः। स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् / सादृश्यप्रयुक्ता च प्रान्तिरस्य विषयः / यथा असम्यग्ज्ञानं त्वसाधादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः। आरोपो हि विषयविषयिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति। शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् / ननु भ्रा. न्तिश्चित्तधर्मः स यस्यास्ति सभ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधानमित्याशङ्कयाह-भ्रान्तिरित्यादि / स इति भणितिप्रकारः अतश्चालंकारे भ्रान्तिसद्भाव उपचरित इति भावः। सादृश्यप्रयुक्तेति / न तु 'क्रामशोकभयोन्मादचौरखप्नायुपप्लुताः / अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव // ' इत्याद्यभिहितावान्त. रनिमित्तोत्थापितेत्यर्थः / अतश्च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषय इति तात्पयोर्थः / एवं च 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्य३ सा दिशि दिशि च सा तद्वियोगातुरस्य / हहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥' इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति न भ्रान्तिमदलंकारः / स हि प्रासादादेवल्लभारूपत्वेन प्रतीतौ स्यात् / अन्यस्यान्यरूपत्वेन सम्यगभिधानात्मानिश्चयो हि भ्रान्तिमल्लक्षणम् / न च प्रासादादिवल्लभात्वेन प्रतीयत इति स्फुट एवायं विशेषालंकारस्य विषयः / अथ प्रासादादावभूताया अपि वल्लभाया दर्शनाभान्तिरिति चेत् , नैतत् / एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालंकारः / गाढानुरागात्मकनिमित्तसामोत्स्वरसत एव प्रासादादावसत्या अपि युवत्याः प्रतीतिसमुल्लासाः। कविप्रतिभानिर्वर्तित्वाभावात् / 'देवमपि हर्ष पितृशोकविह्वलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादिमन्यमानं' इत्यादावपि न भ्रान्तिमदलंकारः / तत्र हि विषयानवगम एव निमित्तसामर्थ्यात्वरसत एव विषयप्रतीतिरुल्लसेत् / शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् / इह पुनर्विषयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोक 1. 'तस्य' ख. 2. भ्रान्तिमच्छब्दः' क.