________________ अलंकारसर्वस्वम् / 'रजिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु / पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण // ' अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् / केचित्त्वध्यवसायोश्रयत्वेन संदेहप्रकारमाहुः / अन्ये तु नुशब्दस्य संभावनाद्योतकसत्त्वादुत्प्रेक्षाप्रकारमिममाचक्षते सादृश्यावस्त्वन्तरप्रतीतिान्तिमान / कचानां च बिम्बप्रतिबिम्बभावः / एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम् / सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः / विप्रतिपत्त्यादिनिमित्तान्तरवच्चारुत्वाभावाच्च / भिन्नाश्रयत्वेनेति वैयधिकरण्येन / अत्रैव पक्षान्तरमाह-केचिदित्यादि / अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तम् / तेनाध्यवसायाश्रयोऽप्ययं स्वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति / तत्र स्वरूपसंदेहो यथा-'रञ्जिता' इत्यायेव / यथा वा-'एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारविषि। कपूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः // ' अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वम् / हेतुसंदेहो यथा-'देवि त्वचरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः / किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः॥' अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितम् / फलसंदेहो यथा-'नृत्तान्ते पारिजातं किमु विघटयितुं प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यों किमु विदलयितुं श्वेतरक्ताब्जबुद्ध्या / लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः // ' अत्र कैरिणो निष्पादनस्य विघटनादिफलमध्यवसितम्। अत्रैवादिशब्दवन्नुशब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह-अन्य इत्यादि / अतश्च रजिता इवेत्यर्थः / पूर्वत्रार्थे तु नुशब्दो वितर्कमात्र एव व्याख्येयः। सादृश्यादित्यादि। 1. 'रागादेः' ख. 2. 'श्रयणेन' 3. 'कारणादि' क. 4. 'अत्रैव चेवादिशब्दस्य संभावना' क. 5. 'इदं' क.