________________ अलंकारसर्वस्वम् / 'अथ पक्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः / . क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः // ' राजसंघटने तूपायनमुचितम् / तच्चान वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः / विषयस्य संदिह्यमानत्वे संदेहः। अभेदप्राधान्ये आरोप इत्येव / विषयः प्रकृतोऽर्थः / यद्भित्तित्वे. नाप्रकृतः संदिह्यते / अप्रकृते संदेहे विषयोऽपि संदिह्यत एव / तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः / स च त्रिविधः / शुद्धो निश्चयगर्भो निश्चयान्तश्च / शुद्धो यस्य संशय एव पर्यवसानम् / यथा प्रकृतोपयुक्तत्वम् / प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् / आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह-तच्चेत्यादि / अत एवेति / आरोपविषयात्मकत्वादेव / तत्रेति समासोक्तौ / एतदेव प्रकृते योजयति-एवमित्यादि / यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्याशझ्याह-केवलमित्यादि / तयोरित्यभिधीयमानयोर्द्वयोः / उचितमिति / उपयुक्ततयेति शेषः / विषयस्येत्यादि / विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेर्विषयिणोऽप्याक्षेपादत्र ग्रहणम् / तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्वं सूत्रार्थः / ननु विषयशब्देन विषयिशब्दस्य संवन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विषयिणः कथं संदिह्यमानता लभ्यत इति चेत् , न / अनियतोभयाशावलम्बिविमर्शरूपत्वाद्विषयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुपपत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः / एतदेव विभज्य व्याचष्टे-विषय इत्यादिना / वद्भित्तित्वेनेति / अन्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रस्तुताभिधानलक्षणो वा दोषः स्यादिति भावः / तेन विषयभित्तितया विषयिणामेव तथाभावो भवतीत्याशङ्कयाह-अप्रकृतेत्यादि / विषयोऽपीति / न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापीयपि शं. ब्दार्थः / तेन क्वचिद्विषयिणामेव संदिह्यमानत्वं क्वचिच्च विषयविषयिणोर 1. 'यत्र' ख.