________________ अलंकारसर्वस्वम् / आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः / आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति / आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैलक्षण्यम् / तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्वैविध्यम् / आयो यथा 'तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय / व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं कृच्छ्रादवीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे / ' तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना / आरोप्यमाणस्येत्यादि / आरोग्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना / प्रकृतोपरञ्जकत्वेनेति / यदुक्तम्-विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति / प्रकृतात्मतयेति / प्रकृताङ्गतयेत्यर्थः / उपयोग इति / तेन विना प्रकृतार्थस्यानिष्पत्तेः / परिणमतीति / प्रकृतमप्रकृतव्यवहारविशिष्टतयावतिष्ठते / प्रकृतखरूपमात्रावस्थाने प्रकरणाानिष्पत्तेः / एवमत्र प्रकरणोपयोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितम् / असाधारणत्वस्य हि धर्मस्य तत्त्वव्यवस्थापकत्वाल्लक्षणत्वम् / अतश्च नास्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् / एवम्'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते / पुत्रं लभखात्मगुणानुरूपं भवन्तमीज्यं भवतः पितेव // ' इत्यत्रोपमायाम् / 'अत्रान्तरे सरखत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमाली' इत्यादावुत्प्रेक्षायाम् / 'मन्दरमेह. क्खोहिअससिकलहंसपरिअ(मु)कसलिलोच्छङ्गम् / मरगअसेवालोवरिणिगण्णतु 1. 'मन्दरमेघपक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम् / मरकतशेवालोपरिनिषपणतूष्णीकमीनचक्रवाकयुगम् // ' इति च्छाया.