________________ - काव्यमाला। जटावल्कलावलम्बिनः कपिला दावामयः' इत्यादौ / न हि कपिलमुनर्बहुत्वम् / 'भ्रमिमरतिमलसहृदयतां प्रलयं मूछी तमः शरीरसादम् / मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् // - इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव / जलदभुजगजमिति रूपकसाधकमिति / पूर्व सिद्धत्वाभावान्न तन्निबन्धनम् / विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः। . .. गस्येति / यद्यप्येकादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तम् / प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवंरूपात् / अतश्चारोप्यमाणस्य कपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वम् / श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति / प्रभावित इति / प्रथममेव प्रतीतिगोचरीकृत इत्यर्थः / पूर्व सिद्धत्वाभावादिति / रूपकस्य श्लेषहेतुत्वात् / तन्निबन्धनमिति रूपकनिबन्धनम् / इतिशब्दो हेतौ। अतश्च श्लेष एवात्रालंकारो न परम्परितं रूपकमित्यत्र तात्पर्यम् / चिन्त्यं चैतत् / यतः श्लेषस्तावद्वाच्ययोर्द्वयोः प्रकृतयोरप्रकृलयोः प्रकृताप्रकृतयोश्च भवति / अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् / वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् / प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य / अतश्च नात्र श्लषालंकारः / नापि ध्वनिः / जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गरलार्थस्याभिधानात् / एवमत्र श्लिष्टशब्दनिबन्धनं जलदभुजगजमिति / रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्विषः स्यादित्युक्तम् / स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् / अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थं स्यात् / 1. 'रूपकमित्यनुचिन्त्यं चैतत्' क.