________________ 48 काव्यमाला। 'यामि मनोवाकायैः शरणं करुणात्मकं जगन्नाथम् / जन्मजरामरणार्णवतरणतरण्डं हरामियुगम् // ' . 'पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भनप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः / सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खड्गः मासौविदल्लः समिति विजयते मालवाखण्डलस्य // ' अत्र मासौविदल्ल इति परम्परितमप्येकदेशविवति / एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव / इदं वैधयेणापि दृश्यते / यथा हात्म्यान्मानसरूपणेति परम्परितम् / एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितम् / पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितम् / अनेकस्य तु यथा-'श्रीःश्रीधरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिच्च गौरी / शक्राक्षिपद्माकरराजहंसी शची च वो यच्छतु मङ्गलानि // ' अत्र बहूनामनेकारोपात्परम्परितमाला / एवमादय इति / परम्परितमप्येकदेशविवर्तीत्येवंप्रकाराः / सूचिता इति / एतच्च दर्शनादेव / ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते / तत्र समस्तवस्तुविषयं यथा-'विहंढन्तोदलउडं फुरन्तदन्ताकारबहलकेसरपअरम् / पहरिमचन्दलोए हसिअं कुमुएण सुरहिगन्धोग्गारम् // ' अत्र कुमुदस्य श्लिष्टत्वम् / एकदेशविवर्ति यथा-'यत्तारामौक्तिकार्यप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्षिहस्तस्थितकरकपयोधौतमाकाशलिङ्गम् / तोयाधारे प्रतीचि च्युतवति दिनकृ. द्विम्बनिर्माल्यपद्मे तस्यार्चापुण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालः // ' अत्र कालविषये पूजकादिरारोप्यमाणो न शब्द इत्येकदेशविवर्तित्वम् / तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाच्छ्रिष्टत्वम् / क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोधर्मस्य हानिकल्पनेना 1. 'विघटदोष्ठदलपुटं स्फुरद्दन्ताकारबहलकेसरप्रकरम् / ..... चन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्गारम् // ' इति च्छाया.