________________ काव्यमाला। 'पीयूषप्रसूतिर्नवा मखमुजां दानं तमोलूनये ___ खर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता / द्विर्भावः स्मरकामुकस्य किमपि प्राणेश्वरीसागसामाशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः // ' 'विस्तारशालिनि नभस्तलपत्रपात्रे ___ कुन्दोज्वलप्रभमसंचयभूरिभक्तम् (1) / गङ्गातरङ्गधनमाहिषदुग्धदिग्धं : ___ जग्धं मया नरपते कलिकालकर्ण // ' तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते / तथा च-पादः कूर्मोऽत्र यष्टि - जगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः / अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्जलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः // ' इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम् / क्रमेणेति यथोद्देशम् / द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालोचनयेन्दोः स्मरकामुत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः। इन्दोश्चैकस्य बहव आरोपा इति मालारूपकम् / अनेकस्य तु यथा—'बाहू बालमृणालिके कुचतटी माणिक्यहयं रतेमुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः / वाचः कोकिलकूजितानि चिकुराश्वेतोभुवश्चामरं तस्यास्त्रस्तकुरङ्गशावकदृशः किं किं न लोकोत्तरम् // ' अत्रानेकेषामनेकारोपाद्रूपकमाला / इयं च श्लेषनिबन्धनापि दृश्यते / यथा-'नेत्रे पुष्करसोदरे मधुमती वाणी विपाशा मतिश्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः / चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमतीवोष्णोदकं वल्गति // ' अत्रानेकेषां श्लिष्टा अनेक आरोपिता इति श्लिष्टार्थरूपकमाला / आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्वियते / यथा-'भवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुच्चिन्वन्नानाविषयवनराजीविकसिताम् / भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहन्तुं व्यग्रः स्यामनुसृतविवेकप्रियसखाः॥' .. 1. 'प्रभवसंचय' क.