________________ अलंकारसर्वस्वम् / 45 यदाहुः— 'उपमैव तिरोभूतभेदा रूपकमिष्यते' इति / आरोपादमेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविमागः / इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् / आयं केवलं मालारूपकं चेति द्विधा / द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव / तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमाला. रूपकत्वाच्चतुर्विधम् / तदेवमष्टौ रूपकभेदाः / अन्ये तु प्रत्येक वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः / क्रमेण यथा दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये / उद्यत्कठोरपुलकाङ्करकण्टकाप्रै र्यखिद्यते तव पदं ननु सा व्यथा मे // ' लंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्याशङ्कयाह-आरोपादित्यादि / चशब्दोऽम्यालंकारापेक्षया भेदसमुच्चयार्थः / विषयद्योतकस्तुशब्दः / अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तम् / सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् / परम्परयैकस्य माहात्म्यादपरस्यारूपणत्वमायातं यत्र तत्तथोक्तम् / आद्यमिति निरवयवम् / माला चैकस्यानेकस्य वानेकारोपाद्भवति / एवं परम्परितत्वेन मालारूपकं ज्ञेयम् / द्वितीयमिति सावयवम् / समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् / एकदेश आरोपविषयाणामर्थात्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तम् / तृतीयमिति परम्परितम् / यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव / तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यम् / अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः। संभवन्तीति चिरंतनालंकारग्रन्थेष्वेव / न पुनर्लक्ष्यन्त इति भावः / तत्र हि तेषां