________________ 44 काव्यमाला। आरोपः / तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः / अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् / साधर्म्य त्वनुगतमेव / वद्यमेतदारोपलक्षणम् / यद्येवं तत्किंशब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेमः / तत्र न शब्दे शब्दान्तरारोपः / मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वविश्रान्तरूपोपलम्भादिति भवद्भिरेवोक्तत्वात् / किं त्वर्थेऽर्थान्तरारोपः / स च प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या / अत एव शुक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः / तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् / अत एव तत्रारोपविषयस्यारोप्यमापनाच्छादितत्वेन प्रतीतिः / इह पुनर्जानान एव कश्चिच्चन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति / अत एवोक्तमारोपविषयानपह्नव इति / भवद्भिरप्यनेनैवाशयेन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरित्याद्युक्तम् / तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः। ताभ्यामवष्टब्धत्वं युक्तम् / यदुक्तम् –'सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा' इति / अन्यथेति / अपह्नवे / एवमनेनापहृतिरूपकयोर्भेदोऽप्युक्तः / आहुरिति दण्ड्यादयः / अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम् / यथा-'कंदर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिाञ्छितं संलग्नाञ्जनपुञ्जकालिकमलं गण्डोपधानं रतेः।व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् // ' अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् / लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वम् / सुधासह. चरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् / अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति / केषांचिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतम् / यदाहालंकारभाष्यकारः-लक्षणापरमार्थं यावता रूपकवरूपं' इत्युपक्रम्य 'सारोपान्या च सादृश्याद्वा संबन्धान्तराद्वा' इत्यादि / स तु यथा'अमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापी तुषारघरटिका / मनसिजवृसी शृङ्गारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनः // ' अत्रेन्दुरूप कारणे कार्यरूपायाः श्रद्धाया आरोपः / ग्रन्थकृताप्यलंकारानुसारिण्यामत्र श्रद्धाहेतुत्वाच्छद्धेत्यभिधाया विशेषेणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः / ननु चाध्यवसायगर्भाणामप्य. 1. काश्मीरिकमहाकविजलणप्रणीतसोमपालविलासकाव्यटीकायाम्...