________________ अलंकारसर्वस्वम् / 43 इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः / करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् / मतान्तरे काव्यलिङ्गमेतत् / तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेदप्राधान्येन कथ्यन्ते अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् / अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः / अन्यत्रान्यावाप त्वदर्शनावाप्तिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्त्वन्तरकरणम् / विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालंकार इत्याशङ्कयाह-करणस्येत्यादि / एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि / एतदिति स्मरणम् / मतान्तर इत्यौद्भटे / यदुक्तम्-'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा / हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते // ' इति / इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलंकारतयैतदुक्तम् / एतदुपसंहरन्नन्यदवतारयति तदेत इत्यादि / एत इत्युपमाद्याश्चत्वारोऽलंकाराः / संप्रतीति / भेदाभेदतुल्यत्वाश्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः / तत्र तावत्प्रथमं रूपकं लक्षयति -अभेदप्राधान्य इत्यादि / वस्तुत इति / न तु प्रतीतितः / सद्भाव इति / प्रधानाप्रधानयोः संबन्धिशब्दत्वात् / अन्यत्रान्यावाप आरोप इति। अन्योति प्रकृते मुखादौ / अन्यस्येत्यप्रकृतस्य चन्द्रादेः / स च सामानाधिकरप्येन वैयधिकरण्येन च निर्देशे भवति / न तु सामानाधिकरण्येन निर्देश एव सः / एवं हि--'याताः कणादतां केचित्' इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीति व्याप्तिः स्यात् / आर्थं सामानाधिकरण्यमस्तीति नाव्याप्तिरिति चेत्, न / भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम् / न च तदत्र निर्दिष्टम् / वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात् / अर्थावसायो निर्देशश्च नैकं रूपम् / विप्रतिषेधात् / नीलमुत्पलमिल्यादावपि गुणजातिरूपत्वेन भिन्नयोनीलोत्पलयोः सामानाधिकरण्येन निर्देशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात् / न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि / इति न निर