________________ काव्यमाला।' अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे सर्तृदशाभावित्वमसमीचीनम् / प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिविषयः / यथा-'अहो कोपेऽपि कान्तं मुखम्' इति / तत्रापि विभावाद्यागूरितत्वे न खशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं' इत्यादि। 'यैदृष्टोऽसि तदा ललाटपतितप्राप्तप्रहारो युधि स्फीतासृक्नुतिपाटलीकृतपुरोभागः परान्पातयन् / तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल ज्वालालीभरभाखरे स्मररिपावस्तं गतं कौतुकम् // " त्वम् / स्मर्तव्यदशाभावित्व इति / स्मर्तव्यदशाभावित्वं वाच्यं सदनादृत्येत्यर्थः / अत एव वाच्यस्यावचनम् / स्मर्तृदशाभावित्वमित्यवाच्यस्य वचनम् / यद्यपि स्मर्तृदशायामतीतत्वाकर्तृविशेषणानां मृगयानिवृत्तत्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभावेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् / प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलंकारस्येत्यादिना / तुशब्द. श्वार्थे / सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम् / तत्राणीति / एवं स्थितेऽपि सतीत्यर्थः / विभावाद्यागूरितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न खशब्दमात्रप्रतिपाद्यत्वे स्मृतिविषय इति संबन्धः / तत्र विभावाद्यारितत्वे स्मृतिर्यथा-'अहो कोपेऽपि कान्तं मुखम्' इति / खशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम् 'अत्रानुगोदं-' इत्यादौ / अत्र च यथा प्रेयोलंकारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः / एवं च प्रत्युदाहरण द्वयस्यापि प्रयोजनं भिन्नविषयत्वात् / क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-'यैदृष्टोऽसि-' इत्यादि / वस्त्वत्र जयापीडदर्शनम् / वस्त्वन्तरं तु भगवल्लक्षणम् / अत्र त्वद्दर्शनमभिलषतां जनानां न 1. 'यथा' क-पुस्तके नास्ति. -