________________ अलंकारसर्वस्वम् / 'अतिशयिप्तसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् / कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि // ' सादृश्यं विना तु स्मृति यमलंकारः / यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः / रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुसः // ' प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥'(अत्र) प्रस्पन्दमानप्रचलितत्वेन शुद्धसामान्यरूपत्वम् / तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः / उन्मेषाभिप्रायेण चानुगामितति भेदत्रयस्याप्येतदुदाहरणम् / सदृशेति / वस्त्वन्तरमिति स्मयमाणम् / सदृशमेवेति / सादृश्यस्योभयनिष्ठत्वात् / अतश्च स्मर्यमाणेनानुभूयमानस्य, अनुभूयमानेन वा स्मयमाणस्य सादृश्यपरिकल्पनमयमलंकारः। यदुक्तम्-यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा। स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी॥' इति / तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे / तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् / द्वितीयस्तु यथा-'तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः / मद्गहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तनेव स्मरामि // ' अत्रानुभूयमानेन मेघेन स्मयमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनम् / एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनेव पुनः स्मयमाणप्रतीतिभवतीत्यवसेयम् / ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्कयाह-अविनाभावेत्यादि / अविनाभावस्तादात्म्यान्नित्यसाहचर्याद्वा / अनुभूयमानस्मर्यमाणयोश्च तदभावः / शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगामितया निर्दिष्टः / वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति। तत्र शुद्धसामान्यरूपत्वेन यथा-'सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः / कुर्वन्नजस्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः // ' अत्र सोल्लाससलीलत्वयोरेकत्वम् / बिम्बप्रतिबिम्बभावेनापि यथा-'पूर्णेन्दुना मेघलवाङ्कितेन द्यां मुद्रितां सुन्दर वीक्षमाणः / विवाहहोमानलधूमलेखामिलत्कपोलां भवतीं स्मरामि // ' अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्बभावः / एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना। सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुक 1. 'स्मृतिगामिनी' ख.