________________ काव्यमाला। अत एवात्र वाक्यभेदः / इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिदेशे च द्विधा। आये यथा'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः / कुमुदाकारास्तारास्ताराकाराणि कुमुदानि // ' द्वितीये यथा 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा / वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः // ' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् // वस्त्वन्तरं सदृशमेव / अविनाभावाभावान्नानुमानम् / यथा वाक्यभेदः / अस्याश्चोपमानान्तरतिरस्कार एव फलम् / अत एवोपमेयेनोपमा इत्यस्या अन्वाभिधानम् / यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नायमलंकारः / यथा-'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि // ' न ह्यत्र विधुसवित्रादीनामुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भव. तीति / साधारण्य इति / एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनोक्तम् / तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः / अनिर्देशपक्षे तु वास्तवमेव साधारण्यम् / यदनुसारं खमिव जलमित्याद्युदाहृतम् / धर्मस्यानुगामित्वे तु यथा-'कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः / धरणीव धृतिधृतिरिव धरणी सततं विभाति बत यस्य // ' अत्र विभातीति सकृन्निर्दिष्टम् / वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा / तत्र बिम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः / तत्र ह्यम्भोजवदनयोर्बिम्बप्रतिबिम्बभावः / शुद्धसामान्यरूपत्वं यथा-'तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे / . 1. “यदभिहितं बौद्धैः-'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति / वस्त्वन्तरं" ख.