________________ अलंकारसर्वस्वम् / 39 न्यग्रोधवर्तिनमथाधिपतिं कुरूणा__ मुत्प्रासनार्थमिव जग्मतुरादरेण // द्वयोः पर्यायेण तसिन्नुपमेयोपमा // तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः / पर्यायो यौगपद्याभावः / नान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् / अस्य ह्युपमानान्तरनिषेधपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं खरूपम् / न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम् / एवं ह्यलंकारध्वनेर्विषयापहारः स्यात् / एवम् ‘गन्धेन सिन्धुरधुरंधर वक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते / तत्त्वं कैचत्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि // ' इत्यत्राप्यनन्वयो न वाच्यः / खीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् / यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम् / यथोक्तन्यायांत् / एवं च तदेकदेशेनावसितभेदेन वेत्यैपास्य उपमानतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् / 'ग्रसमानमिवौजांसि सदस्यैौरवेरितम् / नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् // ' इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम् / एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् / द्वयोरित्यादि / द्वयोरित्युपमानोपमेययोः, न पुनर्द्विसंख्याकयोः / तेन, ‘कान्ताननस्य कमलस्य सुधाकरस्य पूर्व परस्परमभूदुपमानभावः / सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः // ' इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गम् / तच्छब्देनेति तस्मिन्नित्यनेन / यौगपद्याभाव इति क्रमरूपत्वात् / अत इति योगपद्याभावात् / स च वाक्यभेदः शाब्द आर्थश्च / तत्र शाब्दो यथा-'रजोभिः स्यन्दनोद्धतैर्गजैश्च घनसंनिभैः / भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् // ' अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः। आर्थो यथा--भवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती / इतरेतरसादृश्यसुभगामेति वन्द्यताम् // ' अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्च गङ्गावद्वन्द्येत्यस्त्येवार्थों 1. 'उपमाननिषेध' ख. 2. 'कथं ख. 3. 'अपास्य तेनैवानन्वय इति सूत्र. णीयम्' क. 4. 'स्यन्दनोत्कीर्णैः' क.